International Journal of Advanced Academic Studies
  • Printed Journal
  • Refereed Journal
  • Peer Reviewed Journal

2022, Vol. 4, Issue 2, Part A

भारविकृतौ पूर्ववर्तिकवीनां प्रभावस्य परिशीलनम्


Author(s): डॉ. रामायण सिंह:

Abstract: पूर्वकविभि: सह संवादनिर्माणे कवे: नैसर्गिकी प्रवृत्तिर्भवति। देश-काल-अवस्थारूपभेदत्वेन काव्यफलकमानन्त्यं सम्प्राप्नोति। कविगणा: पुरातनवस्तूनि मनसि निधाय तत् परीक्ष्य चाभिनवरचनासु प्रवर्तन्ते। यथा परिमितवर्णेभ्य: अपरिमितवाङ्मयानां पदसमूहानां रचना सम्भवति। तेभ्य: पदेभ्यश्च असीमितवाङ्मयानां निर्मितिर्जायते। तथैव प्राचीनकाव्यवस्तूनि नूतनकाव्ययोजनासु उपस्थापनान्तरं नूतनानीव परिदृश्यन्ते न तु प्राक्तनवत्। प्रौढविवेचकैरेतादृशा: कवय: आद्रियन्ते न तु परिभूयन्ते। शोधपत्रेऽस्मिन् बहुभि: साक्ष्यै: सह तथ्यमिदं प्रकाशयितुं यतिष्यते मया यत् कश्चनापि कवि: पूर्वकविप्रभावेण अस्पृष्टो न तिष्ठति, तत्रैव किरातार्जुनीयमहाकाव्यस्य रचनाकारो महाकविभारविरपि स्वीकरणीयोऽस्ति। महाकविरयं वाल्मीकि-व्यास-कालिदासादिभ्य: पूर्ववर्तिकविभ्य: प्रभूतं काव्यप्रभावमङ्गीकृतवानस्ति, यस्य विवेचनं स्थाप्यतेऽत्र।

DOI: 10.33545/27068919.2022.v4.i2a.752

Pages: 08-13 | Views: 429 | Downloads: 151

Download Full Article: Click Here
How to cite this article:
डॉ. रामायण सिंह:. भारविकृतौ पूर्ववर्तिकवीनां प्रभावस्य परिशीलनम्. Int J Adv Acad Stud 2022;4(2):08-13. DOI: 10.33545/27068919.2022.v4.i2a.752
International Journal of Advanced Academic Studies
Call for book chapter
Journals List Click Here Research Journals Research Journals