एकादेशविषये पाणिनीयकातन्त्रव्याकरणयोः तुलनात्मकमध्ययनम्
Author(s): Uttam Majhi
Abstract: श्रीमता पाणिनिमुनिना तदीयाष्टाध्यायीग्रन्थे एकादेशसन्धिं निरूपयितुं ‘एकः पूर्वपरयोः’ (अष्टाध्यायी, अo६/१/८४) इति सूत्रं प्रणीतम् । अधिकारोऽयम्, ‘ऋत उत्’ (अo६/१/१११) इति यावत्। तत्र पर्यन्तं यद् वक्ष्यति तत्र पूर्वपरयोः स्थाने एकादेशो भवति इति वेदितव्यम् । अष्टाध्यायीग्रन्थे सन्धिविषये पञ्चविध एकादेशः परिलक्ष्यते-१.गुणैकादेशः, यथा- उप + इन्द्रः = उपेन्द्रः । २.वृद्धिरेकादेशः, यथा- कृष्ण + एकत्वम् = कृष्णैकत्वम् । ३.पररूपैकादेशः, यथा- प्र + एजते = प्रेजते। ४.दीर्घैकादेशः, यथा- दैत्य + अरिः = दैत्यारिः । ५.पूर्वरूपैकादेशः, यथा- हरे + अव = हरेऽव। परन्तु कातन्त्रव्याकरणे एतादृश एकादेशो न उपलभ्यते। कातन्त्रव्याकरणे अस्मिन् विषये पूर्ववर्णे आदेशः परवर्णस्य लोपो विधीयते । अत उभयोः व्याकरणयोः सूत्राणां मध्ये सादृश्यो वैसादृश्य अस्ति वा इति प्रश्नः सर्वथा सम्भूयत एव । प्रभृतिविषयणामुपरि तुलनात्मकमध्ययनमस्य शोधप्रबन्धस्य प्रमुखोद्देश्यः ।
Pages: 184-191 | Views: 267 | Downloads: 75Download Full Article: Click HereHow to cite this article:
Uttam Majhi. एकादेशविषये पाणिनीयकातन्त्रव्याकरणयोः तुलनात्मकमध्ययनम्. Int J Adv Acad Stud 2021;3(3):184-191.