2020, Vol. 2, Issue 1, Part D
कालिदासमते संस्कारविमर्शः
Author(s): डाॅ0 अशोक कुमार
Abstract: मानवजीवनस्य शुद्ध्यर्थं परिष्कारार्थ×च यत्कर्मविशेषः क्रियते स एव संस्कार इत्युच्यते। समुपसर्गपूर्वकं कृधातौ भावे करणे च द्य×ा् प्रत्यये कृते संस्कारशब्दोऽयं निष्पद्यते। यस्यार्थो भवति भूषणम्, मण्डणम्, सुन्दरम्, अलंकरणम्, गुणाधाननिमित्तकं कर्म, विधिः पद्धतिरित्यादिः। संस्कारेण विकृतीनां परिहारो निर्गुणे सगुणाधानम्, अशुद्धीनां परिष्करणं च भवति। अनेन दोषमार्जनं गुणाधानमपूर्णस्य च पूर्णत्वं प्राप्यते सद्गुणानां संक्रमण×च क्रियते। वैदिककालादारभ्य संस्कारणामुदयः संदृश्यते। वेदस्य कर्मकाण्डभागे एव संस्काराण मुल्लेखः प्राप्यते। वेदः संस्काराणां मूलस्रोतो भवति। वैदिकमन्त्राः संस्कारेषु उपयुज्यन्ते। धार्मिककृत्येषु विधिविधानेषु सामान्यतो वैदिकमन्त्राणां विनियोगः दृश्यन्ते।
DOI: 10.33545/27068919.2020.v2.i1d.202Pages: 237-238 | Views: 1449 | Downloads: 373Download Full Article: Click Here